तैत्तिरीयारण्यकम् – 4, प्रपाठकः – 10, अनुवाकः – 41-44
ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योஉध्य॒मृता॓थ्सम्ब॒भूव॑ । स
मेन्द्रो॑ मे॒धया॓ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे
विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॓भ्यां॒ भूरि॒विश्रु॑वम् ।
ब्रह्म॑णः को॒शो॑உसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा॓द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना ।
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॓न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॓ः ।
त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑உஉग॒तश्री॑रु॒त त्वया॓
। त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥
ॐ मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑
अ॒श्विना॑वु॒भा-वाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा
गं॑ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं॓ मे॒धा सर॑स्वती॒ सा मां॓ मे॒धा
सु॒रभि॑र्जुषता॒ग्॒ स्वाहा॓ ॥
ॐ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑
प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒
सूर्यो॒ भ्राजो॑ दधातु ॥
ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया॓त् ॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
Take in the hand small quantity of water in the palm (just sufficient to immerse one grain) recites the following manthra and drink it while telling "swaha".
ReplyDelete